|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.126. अध्यायः 126
Mahabharata - Vana Parva - Chapter Topics
इन्द्राभिष्टुतेन च्यवनेन तस्मिन्स्वप्रयुक्तकृत्यायास्ततो विनिवर्त्य स्र्यादिषु विभजनम् ॥ 1 ॥ लोमशेन सुकम्योपाख्यानसमापनपूर्वकं युधिष्ठिराय नानातीर्थमहिमानुवर्णनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-126-0x(2112)(20767)
तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः।
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥ 3-126-1(20768)
भयात्संस्तम्भितभुजः सृक्विणी लेलिहन्मुहुः।
ततोऽव्रवीद्देवराजश्च्यवनं भयपीडितः ॥ 3-126-2(20769)
सोमार्हावश्विनावेतावद्य प्रभृति भार्गव।
भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥ 3-126-3(20770)
न ते मिथ्या समारम्भो भवत्वेष परो विधिः।
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥ 3-126-4(20771)
सोमपावश्विनावेतौ यथा वाद्य कृतौ त्वया।
`तथैव मामपि ब्रह्मञ्श्रेयसा योक्तुमर्हसि' ॥ 3-126-5(20772)
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव।
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति ॥ 3-126-6(20773)
अतो मयैतद्विहितं तव वीर्यप्रकाशनम्।
तस्मान्प्रसादं कुरु मे भवत्वेवं यथेच्छसि ॥ 3-126-7(20774)
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः।
स मन्युर्व्यगमच्छीघ्रं सुमोच च पुरंदरम् ॥ 3-126-8(20775)
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान्।
अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥ 3-126-9(20776)
तदा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना।
अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ॥ 3-126-10(20777)
विख्याप्य वीर्यं लोकेषु सर्वेषु वदतांवरः।
सुकन्यया सहारण्ये विजहारानुकूलया ॥ 3-126-11(20778)
तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते।
अत्रत्वं सह सोदर्यैः पितृडन्देवांश्च तर्पय ॥ 3-126-12(20779)
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत।
सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ॥ 3-126-13(20780)
पुष्करेषु महाराज सर्वेषु च जलं स्पृश।
स्थाणोर्मन्त्राणि च जपन्सिद्धिं प्राप्स्यसि भारत ॥ 3-126-14(20781)
संधिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च।
अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः।
अत्रोपस्पृश चैव त्वं सर्वपापप्रणाशने ॥ 3-126-15(20782)
आर्चीकपर्वतश्चैव निवासौ वै मनीषिणाम्।
सदाफलः सदास्रोतो मरुतां स्तानमुत्तमम् ॥ 3-126-16(20783)
चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर।
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते।
वैखानसप्रभृतयो वालखिल्यास्तथैव च ॥ 3-126-17(20784)
शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रसर्वणानि च।
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥ 3-126-18(20785)
शान्तनुश्चात्र राजेन्द्र शुनकश्च नराधिपः।
नरनारायणौ चोभौ तपस्तप्त्वा चिरं नृप।
स्थानं सनातनं प्राप्तावीश्वरध्यानतत्परौ ॥ 3-126-19(20786)
इह नित्याश्रया देवाः पितरश्च महर्षिभिः।
आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ॥ 3-126-20(20787)
इह ते वै चरून्प्राश्नन्नृषयश्च विशांपते।
यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥ 3-126-21(20788)
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन।
सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव ॥ 3-126-22(20789)
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर।
यत्रधाता विधाता च वपरुणश्चोर्ध्वमागताः ॥ 3-126-23(20790)
इह तेऽप्यवसन्राजञ्शान्ताः परमधर्मिणः।
मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥ 3-126-24(20791)
एषा सा यमुना राजन्महर्षिगणसेविता।
नानायज्ञचिता राजन्पुण्या पापभयापहा ॥ 3-126-25(20792)
अत्रराजा महेष्वासो मांधाताऽयजत स्वयम्।
साहदेविश्च कौन्तेय सोमको ददतांवरः ॥ 3-126-26(20793)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-126-2 सृक्किणी गल्लगर्भौ ॥ 3-126-3 वचो ब्रह्मन्ब्रवीमि ते इति क. पाठः ॥ 3-126-15 संप्रति कलिद्वापरसंधावपि अत्रतीर्थे त्रेताद्वापारसंधितुल्यः कालेस्ति। अत्रस्नातानां कलिस्पर्शो नास्तीति भावः ॥ 3-126-16 सदास्रोतः सदाप्रवाहयुक्तम् ॥ 3-126-18 त्रीणि सृङ्गाणीति त्रिकोणं वाराणसीक्षेत्रम्। त्रीणि प्रस्रवणानीति च प्रयागम्। एतानि सर्वाणि अनुपरिक्रम्य प्रदक्षिणीकृत्य ॥ 3-126-20 तेपुस्तपस्रक्रुः ॥ 3-126-26 साहदेविः सृञ्जयपुत्रस्य पुत्रः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|